|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.186. अध्यायः 186
Mahabharata - Shanti Parva - Chapter Topics
भृगुणा भरद्वाजंप्रति सर्वेषां ब्राह्मणत्वाविशेषेपि क्षत्रियादिवर्णविभागस्य तत्तत्स्वैराचारनिबन्धनत्वोक्तिः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भृगुरुवाच। 12-186-0x(5935)(72416)
असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतीन्।
आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान्॥ 12-186-1(72417)
ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम्।
आचारं चैव शौचं च सर्गादौ विदधे प्रभुः॥ 12-186-2(72418)
देवदानवगन्वर्गा दैत्यासुरमहोरगाः।
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा॥ 12-186-3(72419)
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम।
ये चान्ये भूतसङ्घानां संघातास्तांश्च निर्ममे॥ 12-186-4(72420)
ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः।
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा॥ 12-186-5(72421)
भरद्वाज उवाच। 12-186-6x(5936)
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते।
सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः॥ 12-186-6(72422)
कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः।
सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते॥ 12-186-7(72423)
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम्।
तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते॥ 12-186-8(72424)
जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः।
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः॥ 12-186-9(72425)
भृगुरुवाच। 12-186-10x(5937)
न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत्।
ब्राह्मणाः पूर्वसृष्टा हि कर्मभिर्वर्णतां गताः॥ 12-186-10(72426)
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः।
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः॥ 12-186-11(72427)
गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः।
स्वधर्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः॥ 12-186-12(72428)
हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः।
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रता गताः॥ 12-186-13(72429)
इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः।
धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते॥ 12-186-14(72430)
इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती।
विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः॥ 12-186-15(72431)
ब्राह्मणा ब्रह्मतन्त्रस्थास्तपस्तेषां न नश्यति।
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा॥ 12-186-16(72432)
ब्रह्म वैव परं सृष्टं ये तु जानन्ति ते द्विजाः।
तेषां बहुविधास्त्वन्ये तत्रतत्र द्विजातयः॥ 12-186-17(72433)
पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः।
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः॥ 12-186-18(72434)
प्रजा ब्राह्मणसंस्काराः स्वकर्मकृतनिश्चयाः।
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः॥ 12-186-19(72435)
आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया।
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा॥ ॥ 12-186-20(72436)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षडशीत्यधिकशततमोऽध्यायः॥ 186॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-186-2 स्वर्गाय विदधे इति ध. झ. पाठः॥ 12-186-5 सितः स्वच्छः सत्वगुणः। लोहितो रजोगुणः। पीतकः रजस्तमोव्यामिश्रः। असितः कृष्णः॥ 12-186-6 इदमाक्षिपति चातुर्वर्ण्यस्येति। वर्णेन जात्या वर्णः सात्विकत्वादिर्यदि विभज्यते तन्नेति शेषः। तत्र हेतुः सर्वेषामिति॥ 12-186-7 नोऽस्माकं ब्राह्मणानामपि॥ 12-186-9 जगंमानां पश्वादीनाम्॥ 12-186-10 ब्राह्मं ब्राह्मणत्वजातिमत्। वर्णतां क्षत्रियादिभावम्॥ 12-186-11 रक्ताङ्गा रजोगुणमयाः॥ 12-186-14 व्यस्ताः पृथक्कृताः॥ 12-186-15 चतुरश्चत्वारः। ब्राह्मी वेदमयी॥ 12-186-16 ब्रह्मतन्त्रं वेदोक्तानुष्ठानम्॥ 12-186-17 ये न जानन्ति तेऽद्विजाः इति ध. झ. ट. पाठः॥ 12-186-19 ब्रह्मणि वेदे विहितो ब्राह्मणः संस्कारो यासां ता वेदोक्तसंस्कारवत्यः। अपरेऽर्वाचीना ऋषयः परैः प्राचीनैः सृज्यन्ते॥ 12-186-20 अक्षया नाशहीना। अव्यया अपचयहीना॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|